|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.51. अध्यायः 051
Mahabharata - Shalya Parva - Chapter Topics
देवलजैगीषव्ययोश्चरित्रकीर्तनम्॥ 1 ॥ बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-51-0x(5207)(63085)
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः।
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा॥ 9-51-1(63086)
धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु॥ 9-51-2(63087)
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः।
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः॥ 9-51-3(63088)
काञ्चने लोष्ठके चैव समदर्शी महातपाः।
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह।
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः॥ 9-51-4(63089)
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः।
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः॥ 9-51-5(63090)
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः।
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः॥ 9-51-6(63091)
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्।
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः॥ 9-51-7(63092)
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्॥ 9-51-8(63093)
जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम्।
आहारकाले मतिमान्परिव्राड् जमेजय॥ 9-51-9(63094)
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्।
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा॥ 9-51-10(63095)
देवलस्तु यथाशक्ति पूजयामास भारत।
ऋषिदृष्टेन विधिना समा बहीः समाहितः॥ 9-51-11(63096)
कदाचित्तस्य नृयते देवलस्य महात्मनः।
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्॥ 9-51-12(63097)
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम।
न चायमलसो भिक्षुरभ्यभाषत किञ्चन॥ 9-51-13(63098)
एवं विगणयन्नेव स जगाम महोदधिम्।
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं॥ 9-51-14(63099)
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम्।
जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत॥ 9-51-15(63100)
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः।
कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च॥ 9-51-16(63101)
इत्येवं चिन्तयामास महर्षिरसितस्तदा।
स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः॥ 9-51-17(63102)
कृतजxxxxx श्रीमानाश्रयं च जगाम ह।
xxxxxxxxxx गृहीत्वा जनमेजय॥ 9-51-18(63103)
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः।
xxxxxxxxx तत्र जैगीषव्यमपश्यत॥ 9-51-19(63104)
न व्याहरति चैवेनं जैगीषव्यः कथञ्चन।
xxxxxxxx वसति स्म महातपाः॥ 9-51-20(63105)
तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम्।
प्रविष्टxxxxx चापि पूर्वमेव ददर्श सः॥ 9-51-21(63106)
xxxxx देवलो राजंश्चिन्तयामास बुद्धिमान्।
xxxxxxx तपसो जैगीषव्यास्व योगजम्॥ 9-51-22(63107)
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः।
मया दृष्टः समुद्रे च आश्रमे च कथंन्वयम्॥ 9-51-23(63108)
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः।
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते।
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः॥ 9-51-24(63109)
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत॥ 9-51-25(63110)
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः।
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः॥ 9-51-26(63111)
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत।
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत॥ 9-51-27(63112)
`तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत।'
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्।
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः॥ 9-51-28(63113)
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम्।
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह॥ 9-51-29(63114)
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः।
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्।
व्रजन्तं लोकममलमपश्यद्देवपूजितम्॥ 9-51-30(63115)
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः।
तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम्॥ 9-51-31(63116)
अग्निष्टुतेन च तथा ये यजन्ति तपोधनः।
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः॥ 9-51-32(63117)
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्।
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत॥ 9-51-33(63118)
यजन्ते राजसूयेन पुण्डरीकेण चैव ये।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-34(63119)
अश्वमेधं क्रतुवरं नरमेधं तथैव च।
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत॥ 9-51-35(63120)
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-36(63121)
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः॥ 9-51-37(63122)
मैत्रावरुणयोर्लोकानादित्यानां तथैव च।
सलोकतामनुप्राप्तमपश्यत ततोऽसितः॥ 9-51-38(63123)
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः।
तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः॥ 9-51-39(63124)
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्।
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः॥ 9-51-40(63125)
त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा।
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत॥ 9-51-41(63126)
ततो मुनिवरं भूयो जैगीषव्यमथासितः।
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम॥ 9-51-42(63127)
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः।
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्॥ 9-51-43(63128)
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्।
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः॥ 9-51-44(63129)
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥ 9-51-45(63130)
सिद्धा ऊचुः। 9-51-46x(5208)
शृणु देवल भूतार्थं शंसतां नो दृढव्रत।
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम्॥ 9-51-46(63131)
वैशम्पायन उवाच। 9-51-47x(5209)
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम्।
असिता देवलस्तूर्णमुत्पपात पपात च॥ 9-51-47(63132)
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह।
न देवलगतिस्तत्र तव गन्तुं तपोधन।
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान्॥ 9-51-48(63133)
वैशम्पायन उवाच। 9-51-49x(5210)
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह॥ 9-51-49(63134)
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत्।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः॥ 9-51-50(63135)
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्॥ 9-51-51(63136)
ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः।
विनयावनतो राजन्नुपसर्प्य महामुनिम्।
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्॥ 9-51-52(63137)
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः।
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः॥ 9-51-53(63138)
सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः।
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा॥ 9-51-54(63139)
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह।
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति॥ 9-51-55(63140)
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा।
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे॥ 9-51-56(63141)
ततस्तु फलमूलानि पवित्राणि च भारत।
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः॥ 9-51-57(63142)
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः।
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते॥ 9-51-58(63143)
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः।
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत्॥ 9-51-59(63144)
इति निश्चित्य मनसा देवलो राजसत्तम।
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्॥ 9-51-60(63145)
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः।
प्राप्तवान्परमां सिद्धिं परं योगं च भारत॥ 9-51-61(63146)
ततो देवाः समागम्य बृहस्पतिपुरोगमाः।
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः॥ 9-51-62(63147)
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा।
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्॥ 9-51-63(63148)
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः।
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्॥ 9-51-64(63149)
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः।
तेजसस्तपसश्चास्य योगस्य च महात्मनः॥ 9-51-65(63150)
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः।
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः॥ 9-51-66(63151)
तत्राप्युपस्पृश्य ततो महात्मा
दत्त्वा च वित्तं हलभृद्द्विजेभ्यः।
अवाप्य धर्मं परमार्थकर्मा
जगाम सोमस्य महाxxxxxxर्थम्। ॥ 9-51-67(63152)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-51-7 नैवापुञ्चत धर्मतः इति छ.पाठः॥ 9-51-8 न्यतिक्रमत् व्यत्यक्रामत्॥ 9-51-16 असितप्रभ इति छ.पाठः॥ 9-51-46 भूतार्थं यथाभूतार्थम्॥ 9-51-47 उत्पपात ब्रह्मलोकं गन्तुमिति शेषः। पपात च गगनात्॥ 9-51-54 सर्वाः क्रिया उत्सर्गेष्ठ्यादयः॥ 9-51-56 मोक्षं सन्न्यासं त्यक्तुं मनो दधे। उत्सृष्टा नामग्नीनां पुनराधानं कर्तुमैच्छत्॥ 9-51-66 असितो देवल॥ 9-51-51 एकपञ्चाशत्ततोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|